वांछित मन्त्र चुनें

तस्मा॒दश्वा॑ अजायन्त॒ ये के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वय॑: ॥

अंग्रेज़ी लिप्यंतरण

tasmād aśvā ajāyanta ye ke cobhayādataḥ | gāvo ha jajñire tasmāt tasmāj jātā ajāvayaḥ ||

पद पाठ

तस्मा॑त् । अश्वाः॑ । अ॒जा॒य॒न्त॒ । ये । के । च॒ । उ॒भ॒याद॑तः । गावः॑ । ह॒ । ज॒ज्ञि॒रे॒ । तस्मा॑त् । तस्मा॑त् । जा॒ताः । अ॒जा॒वयः॑ ॥ १०.९०.१०

ऋग्वेद » मण्डल:10» सूक्त:90» मन्त्र:10 | अष्टक:8» अध्याय:4» वर्ग:18» मन्त्र:5 | मण्डल:10» अनुवाक:7» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (तस्मात्) उस परमात्मा से (अश्वाः-अजायन्त) अश्वादि पशु उत्पन्न हुए (ये के च उभयादतः) और जो कोई ऊपर-नीचे दोनों ओर दाँतवाले हैं, वे भी उत्पन्न हुए (तस्मात्-गावः-ह जज्ञिरे) उस परमात्मा से गवादि  उत्पन्न हुए (तस्मात्-अजावयः-जाताः) उसी परमात्मा से बकरियाँ भेड़ें उत्पन्न हुईं ॥१०॥
भावार्थभाषाः - परमात्मा ने घोड़े जाति के पशु दोनों ओर दाँतोंवाले पशु तथा गौवें बकरी भेड़ें आदि उत्पन्न करी हैं ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (तस्मात्) तस्मात् परम पुरुषात् परमात्मनः (अश्वाः-अजायन्त) अश्वाः-अश्वसदृशाः पशव उत्पन्नाः (ये-के च उभयादतः) ये केचनोभयत्रोर्ध्वाधोभागयोर्दन्तवन्तस्तेऽप्युत्पन्नाः (तस्मात्-गावः-ह जज्ञिरे) तस्मात् खलु गावो गवादयः-उत्पन्नाः (तस्मात्-अजावयः-जाताः) तस्मादेव परमात्मनोऽजा अवयश्चोत्पन्नाः ॥१०॥